मुख्यपृष्ठम्

From ज्ञानीपीडिया
Jump to navigation Jump to search
शास्त्रसम्बद्धाः लेखाः
शास्त्रीयलेखाः
गीतोपदेशः

भगवद्गीता भगवतः गीता भगवद्गीता। एतस्य गीतोपदेशः इत्यपि नामान्तरं वर्तते। श्रीकृष्ण: अत्र उपदेशकः श्रोता अर्जुनः। हैन्दवानां धर्मग्रन्थत्वेन विद्यते एषा भगवद्गीता। गीतायाम् अष्टादश अध्यायाः सन्ति। अस्य मोक्षशास्त्रम् इत्यपि नाम वर्तते। प्रत्येकस्यापि अध्यायस्य पृथक् नाम वर्तते। कृष्णार्जुनयोः संवादानुसारम् अध्यायाः विभक्ताः। श्रीमदभगवद्गीताख्यं शास्त्रं वैदिकवाङ्मये सम्पूर्णवेदस्थानीयमिति शास्त्रविदां मतम्। वेदवत् त्रिकाण्डात्मकत्वात्, समस्तवेदार्थसारसंग्रहभूतत्वात्, सर्वशास्त्रमयत्वात्, सर्वसाधारणलोकोपकारकत्वाच्च। प्रसिद्धिश्चैतादृश्येव –

गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः।
या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता ॥ (अधिकवाचनाय »)



অবদানকারীর জন্য পাঠ্য
अद्यतनं चित्रम्
फलकम्:POTD/२०२०-०१-२९
आधुनिकलेखः
आधुनिकाः लेखाः
India, uttar pradesh, jina rishabhanatha, 800-900.JPG

ऋषभदेवः जैनधर्मस्य चतुर्विंशत्यां तीर्थङ्करेषु प्रथमः तीर्थङ्करः आसीत्। सः आदिनाथः, वृषभनाथः इति नाम्ना अपि ज्ञायते। सः योगी आसीत्। तस्य पुत्रस्य भरतस्य नामानुसारम् एव भारतदेशः इति नाम प्रदत्तम्। ऋषभदेवस्य जन्म अयोध्या-नगरे चैत्र-मासस्य कृष्णपक्षस्य नवम्यां तिथौ अभवत्। तस्मिन् दिने उत्तराषाढा-नक्षत्रमासीत्। (अधिकवाचनाय »)




प्रश्नस्य उत्तरं जानासि?
ज्ञायते किं भवता?
एकैकस्य वेदस्य चत्वारः भागा: -
  1. संहिता
  2. ब्राह्मणम्
  3. आरण्यकम्
  4. उपनिषत्



वर्तमानघटनाः
अद्यतनं सुभाषितम्
सर्पाः पिबन्ति पवनं न च दुर्बलास्ते

शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति।
कन्दैः फलैर्मुनिवरा गमयन्ति कालं
सन्तोष एव पुरुषस्य परं निधानम् ॥

पञ्चतन्त्रम् २/१५६

सामान्यतः जनाः चिन्तयन्ति यत् जगति दृश्यमानानि वस्तूनि एव लक्ष्यसिद्धौ प्रमुखं पात्रं वहन्ति इति। किन्तु तत् न सत्यम् इति एतैः उदाहरणैः ज्ञायते - सर्पाः वायोः सेवनमात्रेण जीवन्ति चेदपि ते न दुर्बलाः। शुष्कानि तृणानि खादन् गजः अरण्ये अत्यन्तं बलवान् भवति। कन्दमूलानि खादन्तः एव ऋषयः सर्वेषां मार्गदर्शकः सन्तः तिष्ठन्ति। अतः सन्तोषः एव पुरुषस्य परमं धनम् अस्ति न तु अन्यद् किमपि। सञ्चिका:सर्पाः पिबन्ति (Sarpaah pibanti).wav


.