फलकम्:मुख्यपृष्ठं - सुभाषितम्

From ज्ञानीपीडिया
Jump to navigation Jump to search
जनवरी २०२०
बुधवासरः
२२
०४:३५ UTC

कामान् दुग्घे विप्रकर्षत्यलक्ष्मीं
कीर्तिं सूते दुष्कृतं या हिनस्ति।
तां चाप्येतां मातरं मङ्गलानां
धेनुं धीराः सूनृतां वाचमाहुः ॥

सु.भा. - वाग्वर्णनम् ८८/१२

लोके सर्वैः सज्जनानां सहवासं प्राप्तुं यत्नः करणीयः। तेषां सम्पर्केण अस्माकम् अनेके उपकाराः भवन्ति। सर्वेषां मङ्गलानां जननी इव स्थिता एषा सतां वाणी कामधेनुः इव अस्माकं सर्वाः इच्छाः पूरयति। अनिष्टात् अस्मान् दूरीकरोति। अतः एव पण्डिताः सज्जनानां वाचं कामधेनुं वदन्ति।सञ्चिका:कामान् दुग्धे (Kaamaan dugdhe).wav